रसं काव्यस्य ‘आत्मा’ इति मन्यते। रसस्य उत्पत्तिः रजोतमोगुणाभ्यां रहितावसरे
भवति। रसास्वादनं रागद्वेषरहितहृदयेन सम्भवति। रसास्वादनानन्तरं तस्य हृदयम् उदारं, निर्मलं, परिष्कृतं च भवति।
रसास्वादः अयम् ऐन्द्रियोत्तेजनरहितः सात्विकश्च भवति। सर्वेषां रसस्य आस्वादनं
कर्तुं न शक्यते। अतः रसास्वादनाय योग्यतायाः प्रयोजनमस्ति। रसः स्वयमेव
आस्वाद्यते। रसे रस्यमानता एवास्ति।
रसः
नवविधः –
(1) श्रृङ्कारः
(2) हास्यः
(3) करुणः
(4) रौद्रः
(5) वीरः
(6) भयानकः
(7) बीभत्सः
(8) अद्भुतः
(9) शान्तः
विभावेनानुभावेन त्यक्तः
संचारिणा तथा।
रसातामेति रत्यातिः स्थायिभावः
सचेतसाम्।
“रस्यते इति रसः”। सहृदयपुरुषस्य हृदये
स्थितः, वासनारूपः, रत्यादिस्थायिभावः एव विभाव – अनुभावः – सञ्चारीभावानां
माध्यमेवः अभिव्यक्तं भूत्वा रसस्य स्वरूपं प्राप्नोति।

No comments:
Post a Comment