-नित्या एम्
कश्चन व्यधः असीत् | स: एकदा मृगयार्थं वनं गतवान् | बहुकालानन्तरं सः एकं वराहं दृष्टवान् | तं लक्षीकृत्य सः बाणप्रयोगं कृतवान् | वराहस्य शरिरे महान् व्रणः जातः | व्रणितः वराहः कोपेन व्याधस्य उपरि आक्रमणं कृतवान् | स्वीयाभिः तीक्ष्णाभिः दंष्ट्राभिः तस्य शरीरं विदीर्णवान् | तेन व्याधः मृतः |
तस्मिन् एव वने कश्चन शृगालः असीत्
| सः अतीव लुब्धः | सः शृगालः आहारान्वेषणं
कुर्वन् तत्र एव आगतवान् | व्याधस्य वराहस्य च मृतं शरीरं सः दृष्टवान् | तत् दृष्ट्वा सः
अचिन्तितवान् – अद्य माम दैवं अनुकूलं अस्ति |यथेष्टं आहारः विनायासं
लब्धः | एषः आहारः बहुदिनान् कृते पर्याप्तः भविष्यति | अतः प्रतिदिनं अपि काञ्चितेव
खादामि इति |
अनन्तरं सः व्याधस्य शरीरं परिशीलितवान् | तस्य शरीरस्य पर्श्वे
चापः पतितः आसीत् | चापे चार्मनिर्मिता
रज्जुः बध्दा आसीत् | तत् दृष्ट्वा शृगालः अद्य एतां रज्जुं खादामि | अन्यत् सर्वं पश्चात्
खादामि इति चिन्तितवान् | चापस्य एकं कोटि मुखे स्थापयित्वा सः दन्तौ रज्जुं जग्धवान्
| परन्तु यदा रज्जुः
भग्ना तदा चापस्य कोटिः शृगालस्य मस्तकं विदीर्य बहिः आगता | शृगालः तया वेदनया
तत्क्षणे एव मृतः अभवत् |

No comments:
Post a Comment