अस्माकं शैक्षिणिक पाठ्यपद्धतिं अनुसृत्य कृतं अन्तर्जाल पत्रिकां संस्कृत विभाग अध्यापिकायाः डा . पि सी वि रेणुकामहोदयायाः नेतृत्वेन अत्र प्रकाशयति | पत्रिका प्रकाशनार्थं साहाय्यं कृतवन्तेभ्यः सर्वेभ्यः विशिष्या अस्माकं छात्रसंघाद्ध्यक्षाय श्रीहरि महोदयाय कृतज्ञतां व्याहरामि | संशोधकः सुनिल् कुमार् प्रताप्

12/16/17

ज्योतिषशास्त्रम्


                                                               -सौम्या बि
         

            ज्योतींषि ग्रहनक्षत्राणि अधिकृत्य प्रवर्तितं यच्छास्त्रं तन्नाम ज्योतिषमिति कथ्यते। इदं तु प्रत्यक्षं शास्त्रम् अस्ति। यतोहि अन्येषु शास्त्रेषु यथा विवादा: सन्ति तथा अत्र न सन्ति। सूर्यचन्द्रबुधशुक्रादिग्रहाणां गतिस्थित्यादीनां वर्णनम् अत्र भवति। एतेषां ग्रहाणां प्रत्यक्षदर्शनम् अस्माभि: क्रियते अत: शास्त्रमिदं प्रत्यक्षम् अस्ति इति सिध्यति। एतदतिरिक्ता अपि – लघुपाराशरी, बृहत्पाराशरी, जैमिनिसूत्रम्, भृगुसंहिता, मीनराजजातकप्रभृतय आर्षग्रन्थाः, लघुजातकम्, बृहज्जातकम्, सारावलिः, जातकाभरणम् जातकपध्दतिः , जातकसारः, जातकालङ्कारः, पदमजातकम्, होरारत्नम्, होराकौस्तुभम् इत्यादयः पुरुषप्रणीतग्रन्थाश्च शास्त्रमिदं समृध्दं कुर्वन्ति । केरलमतप्रतिपादका ग्रन्थाः, प्रश्नग्रन्थान्तराणि, रमलग्रन्थाः ताजिकग्रन्थाश्च अस्य शास्त्रस्य पोषका एव ।

                                      

No comments:

Post a Comment